G-B7QRPMNW6J विठ्ठलस्तवराजः स्त्रोत्रम
You may get the most recent information and updates about Numerology, Vastu Shastra, Astrology, and the Dharmik Puja on this website. **** ' सृजन और प्रलय ' दोनों ही शिक्षक की गोद में खेलते है' - चाणक्य - 9837376839

विठ्ठलस्तवराजः स्त्रोत्रम

AboutAstrologer

 विठ्ठलस्तवराजः स्त्रोत्रम 


॥ अथ विठ्ठलस्तवराजः ॥
ओं अस्य श्रीविठ्ठलस्तवराजस्तोत्रमहामन्त्रस्य भगवान् वेदव्यास ऋषिःअतिजगती छन्दः श्रीविठ्ठलः परमात्मा देवता । त्रिमूर्त्यात्मक इति बीजम् । सृष्टिसंरक्षणार्थ इति शक्तिः ।
वरदाभयहस्त इति कीलकम् । मम सर्वाभीष्टफलसिद्धयर्थे जपे विनियोगः । अथ न्यासः- ओं नमो भगवते विठ्ठलाय अङ्गुष्ठाभ्यां नमः । ओं तत्त्वप्रकाशात्मने तर्जनीभ्यां नमः । ओं शङ्खचक्रगदाधरात्मने मध्यमाभ्यां नमः । ओं सृष्टिसंरक्षणार्थाय अनामिकाभ्यां नमः । ओं त्रिमूर्त्यात्मकाय कनिष्ठिकाभ्यां नमः । ओं वरदाभयहस्ताय करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम् -श्रीगुरुं विठ्ठलानन्दं परात्परजगत्प्रभुम् । त्रैलोक्यव्यापकं देवं शुद्धमत्यन्तनिर्मलम् ॥ १॥ नासाग्रेऽवस्थितं देवमाब्रह्मस्तम्बसंयुतम् । ऊर्णातन्तुनिभाकारं सूत्रज्ञं विठ्ठलं स्वयम् ॥ २॥ गङ्गायमुनयोर्मध्ये त्रिकूटं रङ्गमन्दरम् । ज्ञानं भीमरथीतीरं स्वदेवं पण्डरीपुरम् ॥ ३॥ रुक्मणीशक्तिहस्तेन क्रीडन्तं चललोचनम् । आज्ञाब्रह्मबिलान्तःस्थज्योतिर्मयस्वरूपकम् ॥ ४॥ सहस्रदलपद्मस्थं सर्वाभरणभूषितम् । सर्वदेवसमुत्पन्नं ओमितिज्योतिरूपकम् ॥ ५॥ समपर्वत ऊर्ध्वस्थं श्रोणित्रयसहस्रकम् । स्तम्भो मध्यं यथा स्थानं कलौ वेङ्कटनायकम् ॥ ६॥ पीतवस्त्रपरीधानं तुलसीवनमालिनम् । शङ्खचक्रधरं देवं वरदाभयहस्तकम् ॥ ७॥ऊर्ध्वपुण्ड्रमयं देवं चित्राभरणभूषितम् । रत्नसिंहासनं देवं सुवर्णमुकुटोज्ज्वलम् ॥ ८॥ रत्नकिङ्किणिकेयूरं रत्नमण्डपशोभितम् ।पौण्ड्रं च पालिनं रङ्गं यदूनां कुलदीपकम् ॥ ९॥ देवारिदैत्यदर्पघ्नं सर्वलोकैकनायकम् । ओं नमश्शान्तरूपाय सर्वलोकैकसिद्धये ॥ १०॥ सर्वदेवस्वरूपाय सर्वयन्त्रस्वरूपिणे । सर्वतन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ ११॥ परमन्त्रप्रणाशाय परयन्त्रनिवारिणे । परतन्त्रविनाशाय विठ्ठलाय नमो नमः ॥ १२॥ परात्परस्वरूपाय परमात्मस्वरूपिणे । परब्रह्मस्वरूपाय विठ्ठलाय नमो नमः ॥ १३॥
विश्वरूपस्वरूपाय विश्वव्यापिस्वरूपिणे । विश्वम्भरस्वमित्राय विठ्ठलाय नमो नमः ॥ १४॥
परहंसस्वरूपाय सोऽहं हंसस्वरूपिणे । हंसमन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ १५॥
अनिर्वाच्यस्वरूपाय अखण्डब्रह्मरूपिणे । आत्मतत्त्वप्रकाशाय विठ्ठलाय नमो नमः ॥ १६॥
क्षराक्षरस्वरूपाय अक्षराय स्वरूपिणे । ओङ्कारवाच्यरूपाय विठ्ठलाय नमो नमः ॥ १७॥
बिन्दुनादकलातीतभिन्नदेहसमप्रभ । अभिन्नायैव विश्वाय विठ्ठलाय नमो नमः ॥ १८॥
भीमातीरनिवासाय पण्डरीपुरवासिने । पाण्डुरङ्गप्रकाशाय विठ्ठलाय नमो नमः ॥ १९॥
सर्वयोगार्थतत्त्वज्ञ सर्वभूतहिते रत । सर्वलोकहितार्थाय विठ्ठलाय नमो नमः ॥ २०॥
य इदं पठते नित्यं त्रिसन्ध्यं स्तौति माधवम् । सर्वयोगप्रदं नित्यं दीर्घमायुष्यवर्धनम् ॥ २१॥
सर्वे ज्वरा विनश्यन्ति मुच्यते सर्वबन्धनात् । आवर्तनसहस्रात्तु लभते वाञ्छितं फलम् ॥ २२॥
य इदं परमं गुह्यं सर्वत्र न प्रकाशयेत् । स ब्रह्मज्ञानमाप्नोति भुक्तिं मुक्तिं च विन्दति ॥ २३॥
सर्वभूतप्रशमनं सर्वदुःखनिवारणम् । सर्वापमृत्युशमनं सर्वराजवशीकरम् ॥ २४॥
त्रिसन्ध्यं पठते भक्त्या निर्भयो भवति ध्रुवम् ॥ २५॥ सङ्ग्रामे सङ्कटे चैव विवादे शत्रुमध्यगे । शृङ्खलाबन्धने चैव मुच्यते सर्वकिल्वषात् ॥ २६॥ राजद्वारे सभास्थाने सिंहव्याघ्रभयेषु च । साधकस्तम्भने चैव सर्वत्र विजयी भवेत् ॥ २७॥ इति श्रीरुद्रपुराणे वामकेश्वरतन्त्रे विठ्ठलस्तवराजः सम्पूर्णः ।

एक टिप्पणी भेजें

0 टिप्पणियाँ

Do you have any doubts? chat with us on WhatsApp
Hello, How can I help you? ...
Click me to start the chat...