G-B7QRPMNW6J शिवालय संस्कृत श्रीहनुमत्स्तवराजः स्तोत्र
You may get the most recent information and updates about Numerology, Vastu Shastra, Astrology, and the Dharmik Puja on this website. **** ' सृजन और प्रलय ' दोनों ही शिक्षक की गोद में खेलते है' - चाणक्य - 9837376839

शिवालय संस्कृत श्रीहनुमत्स्तवराजः स्तोत्र

AboutAstrologer
॥ श्रीहनुमत्स्तवराजः ॥

॥ अथ श्रीहनुमत्स्तवराजः ॥श्रीपराशरः ।
अन्यत्स्तोत्रं प्रवक्ष्यामि शृंणु मैत्रेय योगिराट् । स्त्वराजमिति ख्यातं त्रिषु लोकेषु दुर्लभम् ॥
शम्भुना चोपदिष्टं च पार्वत्यै हितकाम्यया । सर्वकामप्रदं नृणां भुक्तिमुक्तिफलप्रदम् ॥
अस्य श्रीहनुमत् स्तवराजस्तोत्रमन्त्रस्य वशिष्ठ भगवान् ऋषिः । अनुष्टुप्छन्दः । श्रीहनुमान् देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । मम श्रीहनुमत्प्रसादसिध्यर्थे जपे विनियोगः ॥ अथ ऋष्यादिन्यासः । श्रीवशिष्ठभगवान् ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीहनुमान् देवतायै नमः हृदि । ह्रां बीजाय नमः गुह्ये । ह्रीं शक्तये नमः पादयोः ।ह्रूं कीलकाय नमः नाभौ । मम श्रीहनुमत्प्रसादसिध्यर्थे इति विनियोगाय नमः सर्वाङ्गे ॥ इति ऋष्यादिन्यासः ॥ अथ करन्यासः । ॐ अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः । ॐ रुद्रमूर्तये तर्जनीभ्यां नमः । ॐ वायुपुत्राय मध्यमाभ्यां नमः । ॐ अग्निगर्भाय अनामिकाभ्यां नमः । ॐ रामदूताय कनिष्ठिकाभ्यां नमः । ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । अथ षडङ्गन्यासः । ॐ अञ्जनीसुताय हृदयाय नमः । ॐ रुद्रमूर्तये शिरसे स्वाहा । ॐ वायुपुत्राय शिखायै वषट् । ॐ अग्निगर्भाय कवचाय हुम् । ॐ रामदूताय नेत्रत्रयाय वौषट् । ॐ पञ्चमुखहनुमते अस्त्राय फट् । इति षडङ्गन्यासः ॥ अथ ध्यानम् । उद्यन्मार्ताण्डकोटि प्रकटरुचिकरं चारु वीरासनस्थं मौञ्जीयज्ञोपवीताभरणमुरुशिखा शोभितं कुण्डलाङ्गम् । भक्तानामिष्टदं तं प्रणुत मुनिजनं वेदनादप्रमोदं ध्यायेद्देवं विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्धिम् ॥ इति ध्यानम् ॥ श्रीहनुमान्महावीरो वीरभद्रवरोत्तमः । वीरश्शक्तिमतां श्रेष्ठो वीरेश्वरवरप्रदः ॥ १॥ यशस्करः प्रतापाढयो सर्वमङ्गल सिद्धिदः ।सानन्दमूर्तिर्गहनो गम्भीरस्सुरपूजितः ॥ २॥दिव्यकुण्डलभूषाय दिव्यालङ्कारशोभिने ।पीताम्बरधरप्राज्ञ नमस्ते ब्रह्मचारिणे ॥ ३॥कौपीनवसनाक्रान्त दिव्ययज्ञोपवीतिने । कुमाराय प्रसन्नाय नमस्ते मौञ्जीधारिणे ॥ ४॥ सुभद्रश्शुभदाता च सुभगो रामसेवकः । यशःप्रदो महातेजा बलाढ्यो वायुनन्दनः ॥ ५॥ जितेन्द्रियो महाबाहुर्वज्रदेहो नखायुधः ।सुराध्यक्षो महाधुर्यः पावनः पवनात्मजः ॥ ६॥बन्धमोक्षकरश्शीघ्रपर्वतोत्पाटनस्तथा । दारिद्र्यभञ्जन श्श्रेष्ठस्सुखभोगप्रदायकः ॥ ७॥वायुजातो महातेजाः सूर्यकोटिसमप्रभः । सुप्रभा दीप्तिमद्भूत दिव्यतेजस्विने नमः ॥ ८॥अभयङ्करमुद्राय अपमृत्युविनाशिने । सङ्ग्रामे जयदात्रे च अविघ्नाय नमोनमः ॥ ९॥ तत्त्वज्ञानामृतानन्दब्रह्मज्ञो ज्ञानपारगः । मेघनादप्रमोहाय हनुमद्ब्रह्मणे नमः ॥ १०॥ रुच्याढ्यदीप्तबालार्कदिव्यरूपशुशोभितः । प्रसन्नवदन श्रेष्ठ हनुमन् ते नमो नमः ॥ ११॥ दुष्टग्रहविनाशश्च दैत्यदानवभञ्जनः । शाकिन्यादिभूतहन्त्रे नमोऽस्तु श्रीहनूमते ॥ १२॥ महाधैर्य महाशौर्य महावीर्य महाबल । अमेयविक्रमायैव हनुमन् वै नमोऽस्तुते ॥ १३॥ दशग्रीवकृतान्ताय रक्षःकुलविनाशिने । ब्रह्मचर्यव्रतस्थाय महावीराय ते नमः ॥ १४॥ भैरवाय महोग्राय भीमविक्रमणाय च । सर्वज्वरविनाशाय कालरूपाय ते नमः ॥ १५॥ सुभद्रद सुवर्णाङ्ग सुमङ्गल शुभङ्कर ।महाविक्रम सत्वाढ्य दिङमण्डल सुशोभित ॥ १६॥ पवित्राय कपीन्द्राय नमस्ते पापहारिणे । सुविद्यरामदूताय कपिवीराय ते नमः ॥ १७॥तेजस्वी शत्रुहावीरः युजस्सम्प्रभावनः ।सुन्दरो बलवान् शान्तः आञ्जनेय नमोऽस्तु ते ॥ १८॥ रामानन्द जयकर जानकीश्वासद प्रभो । विष्णुभक्त महाप्राज्ञ पिङ्गाक्ष विजयप्रद ॥ १९॥ राज्यप्रदस्सुमाङ्गल्यः सुभगो बुद्धिवर्धनः । सर्वसम्पत्तिदात्रे च दिव्यतेजस्विने नमः ॥ २०॥कल्याणकीर्तये जयमङ्गलाय जगत्तृतीयं धवलीकृताय । तेजस्विने दीप्तदिवाकराय नमोऽस्तु दीप्ताय हरीश्वराय ॥ २१॥महाप्रतापाय विवर्धनाय मनोजवायाद्भूतवर्धनाय । प्रौढप्रतापारुणलोचनाय नमोऽञ्जनानन्द कपीश्वराय ॥ २२॥ कालाग्निदैत्यसंहर्ता सर्वशत्रुविनाशनः ।अचलोद्धारकश्चैव सर्वमङ्गलकीर्तिदः ॥ २३॥ बलोत्कटो महाभीमः भैरवोऽमितविक्रमः । तेजोनिधिः कपिश्रेष्ठः सर्वारिष्टार्तिदुःखहा ॥ २४॥ उदधिक्रमणश्चैव लङ्कापुरविदाहकः ।सुभुजो द्विभूजो रुद्रः पूर्णप्रज्ञोऽनिलात्मजः ॥ २५॥
राजवश्यकरश्चैव जनवश्यं तथैव च ।सर्ववश्यं सभावश्यं नमस्ते मारुतात्मज ॥ २६॥
महापराक्रमाक्रान्तः यक्षराक्षसमर्दनः ।सौमित्रिप्राणदाता च सीताशोकविनाशनः ॥ २७॥
रक्षोघ्नोऽञ्जनासूनुश्च केसरीप्रियनन्दन ।सर्वार्थदायको वीरः मल्लवैरिविनाशनः ॥ २८॥ सुमुखाय सुरेशाय शुभदाय शुभात्मने । प्रभावाय सुभावाय नमस्तेऽमिततेजसे ॥ २९॥ वायुजो वायुपुत्रश्व कपीन्द्रः पवनात्मजः । वीरश्रेष्ठ महावीर शिवभद्र नमोऽस्तुते ॥ २९॥ भक्तप्रियाय वीराय वीरभद्राय ते नमः । स्वभक्तजनपालाय भक्तोद्यानविहारिणे ॥ ३०॥दिव्यमालासुभूषाय दिव्यगन्धानुलेपिने ।श्रीप्रसन्नप्रसन्नाय सर्वसिद्धिप्रदोभव ॥ ३१॥ वातात्मजमिदं स्तोत्रं पवित्रं यः पठेन्नरः । वातसूनोरिदं अचलां श्रियमाप्नोति पुत्रपौत्रादिवृद्धिदम् ॥ ३२॥ धनधान्यसमृद्धिं च आरोग्यं पुष्टिवर्धनम् । बन्धमोक्षकरं शीघ्रं लभते वाञ्छितं फलम् ॥ ३३॥ राज्यदं राजसन्मानं सङ्ग्रामे जयवर्धनम् ।सुप्रसन्नो हनुमान्मे यशःश्री जयकारकः ॥ ३४॥ ॥ इति श्रीपराशरसंहितायै पराशरमैत्रेयसंवादे हनुमत्स्तवराजः सम्पूर्णः ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Do you have any doubts? chat with us on WhatsApp
Hello, How can I help you? ...
Click me to start the chat...