॥ सुदर्शनकवचम् ॥ ॥ श्रीकृष्णाय नमः ॥ ॥ श्रीगोपीजनवल्लभाय नमः ॥
अथ विनियोगः ॐ अस्य श्रीसुदर्शनकवचमहामन्त्रस्य नारायणऋषिः ।श्रीसुदर्शनो देवता ॥ गायत्री छन्दः ॥ दुष्टं दारयतीति कीलकम् ॥हन हन द्विष इति बीजम् ॥ सर्वशत्रुक्षयार्थे सुदर्शनस्तोत्रपाठे विनियोगः ॥अथ न्यासःॐ नारायणऋषये नमः शिरसि ॥ ॐ गायत्री छन्दसे नमः मुखे ॥ ॐ दुष्टं दारयतीति कीलकाय नमः हृदये ॥ॐ ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः गुह्ये ॥ ॐ सुदर्शने ज्वलत्पावकसङ्काशेति कीलकाय नमः सर्वाङ्गे ॥ इति ऋष्यादिः ॥ अथ हृदयादिन्यासः ॐ नारायणऋषये नमः अङ्गुष्ठाभ्यां नमः ॥ ॐ गायत्रीछन्दसे नमः तर्जनीभ्यां नमः । ॐ दुष्टं दारयतीति कीलकाय नमः मध्यमाभ्यां नमः ॥ ॐ ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः अनामिकाभ्यां नमः ॥ ॐ सर्वशत्रुक्षयार्थे श्रीसुदर्शनदेवतेति करतल-करपृष्ठाभ्यां नमः ॥ ॐ नारायणऋषये नमः हृदयाय नमः ॥ॐ गायत्रीछन्दसे नमः शिरसे स्वाहा ॥ ॐ दुष्टं दारयतीति कीलकाय नमः शिखायै वषट् ॥ ॐ ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः कवचाय हुम् ॥ॐ सुदर्शन ज्वलत्पावकसङ्काशेति नेत्रत्रयाय वौषट् ॥ ॐ सर्व शत्रु क्षयार्थे सुदर्शनदेवतेति अस्त्राय फट् ॥ इति न्यासं विधाय ध्यानं कुर्यात् । अथ ध्यानम् । सुदर्शनं महावेगं गोविन्दस्य प्रियायुधम् ।
ज्वलत्पावकसङ्काशं सर्वशत्रुविनाशनम् ॥ १॥ कृष्णप्राप्तिकरं शश्वद्भक्तानां भयभञ्जनम् ।
सङ्ग्रामे जयदं तस्माद्ध्यायेदेवं सुदर्शनम् ॥ २॥ अथ मन्त्रः - ॐ ह्रां ह्रीं ह्र्रूं नमो भगवते भो भो सुदर्शनचक्र दुष्टं दारय दारय दुरितं हन हन पापं मथ मथ आरोग्यं कुरु कुरु हुं फट् स्वाहा ॥ अथ सुदर्शन-कवचम् । श्री कृष्णाय नमः ॥ श्रीगोपीजनवल्लभाय नमः ॥ ॐ वैष्णवानां हि रक्षार्थं श्रीवल्लभनिरूपितः । सुदर्शनमहामन्त्रो वैष्णवानां हितावहः ॥ १॥ यन्त्रमध्ये निरूप्यन्ते चक्राकारं च लिख्यते । उत्तरागर्भरक्षा च परीक्षितहिते रतः ॥ २॥ ब्रह्मास्त्रवारणं चैव भक्तानां भयभञ्जनः । वधं च दुष्टदैत्यानां खण्डं खण्डं च कारकः ॥ ३॥ वैष्णवानां हितार्थाय चक्रं धारयते हरिः । पीताम्बरः परब्रह्म वनमाली गदाधरः ॥ ४॥ कोटिकन्दर्पलावण्यो गोपिकाप्राणवल्लभः ।
श्रीवल्लभः कृपानाथो गिरिधृक् शत्रुमर्दनः ॥ ५॥ दावाग्निपानकर्ता च गोपीभयनिवारकः ।
गापालो गोपकन्याभिः समावृत्तोऽधितिष्ठते ॥ ६॥ व्रजमण्डलप्रकाशी च रामकृष्णजगन्मयः ।
गो-गोपिकासमाकीर्णो वेणुवादनतत्परः ॥ ७॥ कामरूपी कलावांश्च कामिन्यां कामदो विभुः ।
मन्मथो मथुरानाथो माधवो मकरध्वजः ॥ ८॥ श्रीधरः श्रीकरश्चैव श्रीनिवासः सतां गतिः ।
भुक्तिदो मुक्तिदो विष्णुर्भूधरो भूतभावनः ॥ ९॥ सर्वदुःखहरो वीरो दुष्टदैत्यविनाशकः ।श्रीनृसिंहो महाविष्णुः श्रीनिवासः सतां गतिः ॥ १०॥ चिदानन्दमयो नित्यः पूर्णब्रह्मसनातनः । कोटिभानुप्राकाशी च निश्चितार्थस्वरूपकः ॥ ११॥भक्तप्रियः पद्मनेत्रो भक्तानां वाञ्छितप्रदः ।
हृदि कृष्णो मुखे कृष्णो नेत्रे कृष्णश्च कर्णयोः ॥ १२॥ भक्तिप्रियश्च श्रीकृष्णः सर्वं कृष्णमयं जगत् । कालमृत्युयमाहूतं भूतप्रेतो न दृश्यते ॥ १३॥ पिशाचा राक्षसाश्चैव हृदि रोगाश्च दारुणाः ।
भूचराः खेचराः सर्वे डाकिनी शाकिनी तथा ॥ १४॥ नाटकं चेटकं चैव छलं छिद्रं न दृश्यते ।
अकाले मरणं तस्य शोकदुःखं न लभ्यते ॥ १५॥सर्वविघ्नं क्षयं याति रक्ष मे गोपिकाप्रिय ।
भयदावाग्निचौराणां विग्रहे राजसङ्कटे ॥ १६॥ व्याल-व्याघ्र-महाशत्रु-वैरिबन्धो न लभ्यते ।
आधिव्याधिहरश्चैव ग्रहपीडा-विनाशनम् ॥ १७॥ इमे सप्तशश्लोका यन्त्रमध्ये च लिख्यते ।
वंशवृद्धिर्भवेत्तस्य श्रोता च फलमाप्नुयात् ॥ १८॥ कृष्णाष्टमीं समारभ्य यावतकृष्णाष्टमी भवेत् । देवं ध्यात्वा जपेन्मत्रमयुतानां चतुष्टयम् ॥ १९॥ वैष्णवानां हि रक्षार्थं वैष्णवानां हिताय च ।
सुदर्शनमहामन्त्रो लभते जयमङ्गलम् । सर्वपापहर कृष्ण त्वामहं शरणं गतः ॥ २०॥
इति श्रीमद्वल्लभाचार्यचरणविरचितं श्रीसुदर्शनकवचं सम्पूर्णम्
0 टिप्पणियाँ